|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.328. अध्यायः 328
Mahabharata - Shanti Parva - Chapter Topics
कपिलेनासुरि प्रति तत्वविभागादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
कपिल उवाच। 12-328-0x(6533)(78738)
यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि।
यमानुपूर्व्यशः प्रोक्तान्येवमाह॥ 12-328-1(78739)
तत्वान्यथोक्तानि। तथाविद्यो निबुद्ध्यते।
न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात्॥ 12-328-2(78740)
यदप्युक्तं इहाद्यं मध्यमं च तत्वानामित्यत्र ब्रूमः॥ 12-328-3(78741)
एवमाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येव मामकेनेत्यत्रोच्यते॥ 12-328-4(78742)
तदेव तद्यदा दत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि एतदाद्यं मध्यमं च। एतस्मात्तत्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते। केचिदाहुराचार्याः॥ 12-328-5(78743)
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु व्यक्तमव्यक्ताधिष्ठितमेतद्देवदत्तसंज्ञकम्॥ 12-328-6(78744)
योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्वानां प्रतिबुध्यमानयोर्व्यतिरिक्तं शुचिव्यभ्रमित्याहुराचार्याः। एवमाह॥ 12-328-7(78745)
चतुर्विशतितत्वज्ञस्त्वव्यक्ते प्रतितिष्ठति।
पञ्चविंशतितत्वज्ञोऽप्यव्यक्तमधितिष्ठति॥' ॥ 12-328-8(78746)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकत्रिशततमोऽध्यायः॥ 328॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|